Loading data... On slow networks this could take a few minutes.
100%

अभ्युद्यतस्य क्रमितुं जवेन
गां तमालनीला गिरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ
बलाम्बुराशेर्महतो महापगा ॥

मल्लिनाथः (कलापकम् ।) अभीति ॥ तमालवन्नीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्घ्या सा महापगा महानदी यमुना । जवेन गां भुवं क्रमितुमाक्रमितुमभ्युद्यतस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोऽग्रे क्षणं सीमेव वेलेव बभावित्युत्प्रेक्षा। क्षणमिति क्षणमात्रनिरोधिकाभवत् । अनन्तरमेव तरणादिति भावः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
भ्यु द्य स्य क्र मि तुं वे
गां मा नी ला गि रां धृ ता तिः
सी मे सा स्य पु रः क्ष णं
भौ ला म्बु रा शे र्म तो हा गा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.