या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥
मल्लिनाथः
येत्यादि ॥ या यमुना घर्मभानोरुष्णांशोस्तनयापि सती शीतलैरपि । अपिर्विरोधे । स चोष्णजातायाः शैत्यानुपपत्तेरिति भावः । यमस्यान्तकस्य स्वसापि जनस्य जीवनैरुज्जीवकैः । अत्राप्येकोदराणां भिन्नक्रियानुपपत्तेर्विरोधः । `कालिन्दी सूर्यतनया यमुना शमनस्वसा` इत्युभयत्राप्यमरः । किंच कृष्णा कृष्णवर्णा मलिना च तथापि शुद्धेर्वैमल्यस्याधिकं विधातृभिः संपादकैर्जलैरंहांसि पापानि विहन्तुं पटीयसी समर्थतरा । अत्र यमुनातज्जलगतत्वेन निर्दिष्टयोर्गुणक्रिययोर्विरोधेन त्रिषु विरोधेषु संसृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति संक्षेपः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.