उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः
प्रतप्तमभ्यर्णतयाविवस्वतः ।
आह्लादिकह्लारसमीरणाहते
पुरः पपाताम्भसि यमुने रजः ॥

मल्लिनाथः &#३२; उद्धूतमिति ॥ ध्वजिनीभिः सेनाभिरुच्चैरुद्भूतमूर्ध्वं क्षिप्तम् । अत एव अभ्यर्णतयान्तिकतया । `उपकण्ठान्तिकाभ्यर्णा` इत्यमरः । विवस्वतोंऽशुभिः प्रतप्तम् । प्रतप्तमिवेत्यर्थः । अत एव व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कह्लारसमीरणाः सौगन्धिकमारुताः । `सौगन्धिकं तु कह्लारम्` इत्यमरः । तैराहते चालिते यामुने यमुनासंबन्धिन्यम्भसि पुरोऽग्रे रजो धूलिः पपात । संतप्ता हि संतापमसहमानाः पुरो धावित्वा क्वचन शिशिरे पयसि पतन्तीति भावः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
द्धू मु च्चै र्ध्व जि ना भि रं शु भिः
प्र प्त भ्य र्ण या वि स्व तः
ह्ला दि ह्ला मी णा ते
पु रः पा ता म्भ सि मु ने जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.