आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः । दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥

मल्लिनाथः आयामेति ॥ आयामो दैर्घ्यं सोऽस्ति येषां तद्वद्भिः । आयतैरित्यर्थः । करिणां संबन्धिभिर्घटाशतैर्व्यूहशतैः । `करिणां घटना घटा` इत्यमरः । अधःकृतास्तिरस्कृता अट्टालकपङ्क्तयोऽट्टश्रेण्यो यया सा । `अट्टास्वट्टालकः स्मृतः` इति वैजयन्ती । सा चमूरुच्चकैरुन्नतैः दूष्यैः पटमण्डपैः जितान्युदग्राणि गृहाणि येषां तानि भूयांसि पुराण्यतीत्यावर्तत । अतिक्रम्य गतेत्यर्थः । शोभया अतिशय्य स्थितेति च गम्यते । तदभेदाध्यवसायेन श्लेषमूलातिशयोक्त्युत्थापितं पूर्ववत्पदार्थहेतुकं काव्यलिङ्गम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.