Loading data... On slow networks this could take a few minutes.
100%

रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः । कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥

मल्लिनाथः रुग्णेति ॥ इभा रुग्णैर्भग्नैरुरुभिर्महद्भी रोधोभिस्तटैः परिपूरिताम्भसः । मृत्क्षेपशोषिताम्भस इत्यर्थः । पुराभवाः पुरातनीः । `सायंचिरम्-` (अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युप्रत्ययः तुडागमश्च । `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । नदीः समस्थलीकृत्य स्थलसमाः कृत्वा । मदाम्बुभिः स्वमदोदकैः कूलं कषन्तीति कूलंकषाः ओघा यासां ता उभयकूलप्रवाहिन्योऽपरा अन्याः सरितः प्रवर्तयामासुः । एतेन गजसंपत्तिरुक्ता । अत्र नदीनां समस्थलत्वासंबन्धे मदाम्बूनां च सरित्त्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरिति सजातीयसंकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.