रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः । पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः । पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥
मल्लिनाथः
रन्तुमिति ॥ रन्तुं क्रीडितुं क्षता एकत्र विषाणैरन्यत्र नखैश्च विदलिता उत्तुङ्गा नितम्बभूमयो रोधोभागाः श्रोणिभागाश्च यैस्ते । `नितम्बो रोधसि स्कन्धे शिखरेऽपि कटीतटे` इति विश्वः । मुहुः प्रमदं हर्षं व्रजन्तः मदेन दानेन दर्पेण वोद्धताः। करैर्हस्तैरपाकृतानि शैवलानि अंशुकानीवांशुकानि यैस्ते इभा नागाः समुद्रं गच्छन्तीति समुद्रगाणां समुद्रपत्नीनां नदीनाम् । `एकाजुत्तरपदे णः` (अष्टाध्यायी ८.४.१२ ) इति णत्वम् । पङ्कं कर्दमं कलुषं चोदपादयत् । पङ्कोऽस्त्री कर्दमैनसोः` इति विश्वः । यथा मदोद्धताः पराङ्गनानां बलाद्दोषमुत्पादयन्ति तद्वदिति भावः । अत्र प्रस्तुतेभविशेषणादप्रस्तुतस्त्रीसंग्रहणसाहसिकप्रतीतेः समासोक्तिः । स्त्रीपङ्कयोरभेदाध्यवसायादिति श्लेषमूलातिशयोक्त्युत्थापितेति संकरः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.