पद्मैरनन्वीतवधूमुखद्युतो
गताः न हंसैः श्रियमातपत्रजाम् ।
दूरेऽभवन्भोजवलयस्य गच्छतः
शैलोपमातीतगजस्य निम्नगाः ॥

मल्लिनाथः पद्मैरिति ॥ पद्मरनन्वीता अप्राप्ता वधूमुखस्य द्युत् श्रीर्याभिस्ताः । वधूमुखश्रीजितपद्मा इत्यर्थः । अन्वीतेति `ईङ् गतौ` इति धातोः कर्मणि क्तः । हंसैरातपत्रजां छत्रजन्यां श्रियं न गता अगताः । आतपत्रजितहंसश्रीका इत्यर्थः । निम्नगा नद्यः शैलोपमामतीताः शिलासाम्यमतिक्रान्ता गजा यस्मिंस्तस्य गच्छतो भोजबलस्य यादवसैन्यस्य दूरेऽभवन् । अतिव्यवहिता इत्यर्थः । अपकृष्टाश्चेति गम्यते । तदभेदाध्यवसायेनैव निम्नगानां दूरभवनस्य तद्विशेषणपदार्थहेतुकत्वाच्छ्लेषमूलातिशयोक्तिसमुत्थापितः काव्यलिङ्गभेदः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
द्मै न्वी धू मु द्यु तो
ताः हं सैः श्रि मा त्र जाम्
दू रे ऽभ न्भो स्य च्छ तः
शै लो मा ती स्य नि म्न गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.