उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥
मल्लिनाथः
उत्क्षिप्तेति ॥ उत्क्षिप्तगात्र उन्नमितपूर्वकायः अत एव नभः खं प्रति समुत्पतिष्यन्तमुत्पतनोद्युक्तमगेन्द्रं महाद्रिं विडम्बयन्ननुकुर्वन्नित्युत्प्रेक्षा । अभूतोपमेति केचित् । उच्चकैरुन्नतः करेणुरिभः । `करेणुरिभ्यां स्त्री नेभे` इत्यमरः । आकुञ्चितो नमितः प्रोहो गजाङ्घ्रिः । `गजाङ्घ्रिः प्रोहः` इति विश्वः । तत्र निरूपितक्रमं कृतपादन्यासं निषादिनं यन्तारं आरोहयते स्म । स्वयमेव स्वात्मन्यारोपयतीत्यर्थः । रोहेर्गत्यर्थत्वात् `गतिबुद्धि-` (अष्टाध्यायी १.४.५२ ) इत्यादिना अणि कर्तुर्निषादिनः कर्मत्वम् ।&#३२; अत्र कर्त्रभिप्राये `णिचश्च` (अष्टाध्यायी १.३.७४ ) इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याप्यलंकारत्वादकार्त्रभिप्रायेऽपि `णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने` (अष्टाध्यायी १.३.६७ ) इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरेवात्र ण्यन्ते कर्तृत्वात्तस्यैव चार्थात्कर्मत्वादिति । ननु यत्सग्रहणमनन्यकर्मार्थमित्युक्तं तेन कर्ममात्रनिषेधात्कथं निषादिनि कर्मण्यात्मनेपदम् । सत्यम् । अन्येषां मतम् । भाष्यकारस्य तु `दर्शयते भृत्यान् राजा` इत्युदाहरणादणि कर्तृकर्मण्यतिरिक्तकर्मण एव निषेधो विवक्षित इति कैयटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे `स संततं दर्शयते गतस्मयः` (किरातार्जुनीये १।१०) इत्यत्र । स्वभावोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.