प्रह्वानतीव क्वचिदुद्धतिश्रितः
क्वचित्प्रकाशानथ गह्वरनापि ।
साम्यादपेतानिति वाहिनी हरे-
स्तदातिचक्राम गिरीन्गुरूनपि ॥
प्रह्वानतीव क्वचिदुद्धतिश्रितः
क्वचित्प्रकाशानथ गह्वरनापि ।
साम्यादपेतानिति वाहिनी हरे-
स्तदातिचक्राम गिरीन्गुरूनपि ॥
क्वचित्प्रकाशानथ गह्वरनापि ।
साम्यादपेतानिति वाहिनी हरे-
स्तदातिचक्राम गिरीन्गुरूनपि ॥
मल्लिनाथः
प्रह्वानिति ॥ क्वचिदतीव नितान्तं प्रह्वान् प्रवणान् । अन्यत्रानुकूलान् क्वचिदुद्धतिं श्रयन्तीत्युद्धतिश्रितः औन्नत्यभाजः, औद्धत्यभाजश्च । श्रयतेः क्विप् तुक् । क्वचित्प्रकाशान्प्रकटाननवगूढवृत्तींश्च क्वचिदतिगह्वरानपि । अपिः चार्थे । अप्रवेशान्, अन्यत्र गूढांश्च । इतीत्थं साम्यादपेतान् विषमरूपान् विषमवृत्तांश्च । अत एव गुरून् महतोऽपि पूज्यानपि गिरीस्तदा हरेः वाहिनी सेना अतिचक्रामातीत्य गता, उल्लङ्घिता च । `गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥` इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोद्घाटनेन परिहृत इति विरोधाभासः । स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्त्युत्थापित इति संकरः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| प्र | ह्वा | न | ती | व | क्व | चि | दु | द्ध | ति | श्रि | तः |
| क्व | चि | त्प्र | का | शा | न | थ | ग | ह्व | र | ना | पि |
| सा | म्या | द | पे | ता | नि | ति | वा | हि | नी | ह | रे |
| स्त | दा | ति | च | क्रा | म | गि | री | न्गु | रू | न | पि |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.