Loading data... On slow networks this could take a few minutes.
100%

नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥

मल्लिनाथः नीत इति ॥ उचिते परिचिते पलाशिनि द्रुमे । `पलाशी दुद्रुमागमाः` इत्यमरः । शरीरवत्पूर्वशरीरवत् । `तत्र तस्येव` (अष्टाध्यायी ५.१.११६ ) इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्तव्यापारेण गजोऽन्तक इवेत्युपमितसमासः साहचर्यात् । तेन गजान्तकेनान्तं नाशं नीते गमिते सति प्लवैर्गच्छन्तीति प्लवंगमाः कपयः । `गमश्च`&#३२; (अष्टाध्यायी ३.२.४७ ) इति खच्प्रत्यये मुमागमः । आत्मानो जीवा इवापरं क्षमारुहं देहमिव क्षणात् संचेरुः । संप्रविष्टा इत्यर्थः । अनेकेवशब्दवाक्यार्थोपमा । सा च शरीरवदिति तद्धितगता, अन्यत्र समासगतेति संकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.