स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥

मल्लिनाथः स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गान्यपि । `पथो विभाषा` (अष्टाध्यायी ५.४.७२ ) इति निषेधविकल्पात् `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तः । `अपथं नपुंसकम्` (अष्टाध्यायी २.४.३० ) इति नपुंसकत्वम् । व्याप्तवत्यापि सर्वान्पथो व्याप्नोतीति सर्वपथीना। `तत्सर्वादेः-` (अष्टाध्यायी ५.२.७ ) इत्यादिना खप्रत्ययः । तया सर्वपथीनया तया स्वसेनया निमित्तेन अम्भोभिरुल्लङ्घितानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुङ्गरोधांसि यासां ता निम्नं गच्छन्तीति निम्नगा नद्यः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यासां ताः प्रतीपाः । `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तः । `द्व्यन्तरुपसर्गेभ्योऽप ईत्` (अष्टाध्यायी ६.३.९७ ) इतीकारः। अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा इति नामधेयं यासां ताः प्रतीपनाम्यः । `अन उपधालोपिनोऽन्यतरस्याम्` (अष्टाध्यायी ४.१.२८ ) इति ङीप् । तास्तथा चकारेत्यर्थः । अत्र निम्नगानां प्रतीपनामासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.