श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते । क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥
श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते । क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥
मल्लिनाथः
श्मश्रूयेति ॥ तरोर्वृक्षस्य श्मश्रूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमालंकारः । श्मश्रुशब्दादाचारे क्यङन्ताल्लटः शानजादेशः `अकृत्सार्वधातुकयोः` (अष्टाध्यायी ७.४.२५ ) इति दीर्घः । गण्डं कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके क्षौद्रपटले विधूनिते कम्पिते सति । धूञो ण्यन्तात्कर्मणि क्तः । `धूञ्प्रीञोर्नुग्वक्तव्यः` (वा०) इति नुगागमः । अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । `क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका` इत्यमरः । विदश्यमानेन चञ्चुभिस्तुद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुद्रुवे पलायितम् । भावे लिट् । स्वभावोक्तिरुक्तोपमासंसृष्टा
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.