शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥

मल्लिनाथः शुक्लैरिति ॥ शुक्लैः शुभैः सतारैः सरज्जूकैः सकर्णिकैश्च मुकुलीकृतैर्वहनसौकर्याय संकोचितैः, अन्यत्र रात्रिविकासित्वान्मुकुलतां नीतैः प्राप्तैः स्थुलैर्दीर्घैः पटमण्डपैरिति यावत् । कुमुदाकरैः कुमुदहृदैरिवोपलक्षितम् । अन्यत्र स्थुलैरिव कुमुदाकरैरुपलक्षितं वियोगवेदनया विरहव्यथया विदूनाः परितप्ताः । `ल्वादिभ्यः` (अष्टाध्यायी ८.२.४४ ) इति निष्ठानत्वम् । ता नार्यो यस्मिंस्तत्तथोक्तम् । द्वयोरपि वियोगकालत्वादिति भावः । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । कुमुदान्यासु सन्तीति कुमुद्वत्यः कुमुदप्राया भूमयः । `कुमुद्वान्कुमुदप्राये` इत्यमरः । कैरविण्यो वा। `कुमुद्वती कैरविण्याम्` इति विश्वः । `कुमुदनडवेतसेभ्यो ड्मतुप्` (अष्टाध्यायी ४.२.८७ ) इति मतुप्प्रत्ययः । `मादुपधायाः-` (अष्टाध्यायी ८.२.९ ) इति मकारस्य वत्वम् । तासां कुमुद्वतीनां संबन्धे व्युष्टं प्रभातम् । `व्युष्टं प्रभातं प्रत्यूषम्` इत्यभिधानचिन्तामणिः । तत्र किंचित्करत्वात्तत्संबन्धित्वं प्रयाणं च सेनानामिति शेषः । तदा तस्मिन्काले सममुक्तरीत्या अन्योन्यसदृशमभूत् । व्युष्टप्रयाणयोर्द्वित्वेऽपि समुदायविवक्षायामभूदित्येकवचनम् । व्युष्टं प्रयाणं च द्वयमपि सममभूदित्यर्थः । अत्र वर्ण्यत्वेन प्रकृतस्य प्रयाणस्य प्रकृतव्युष्टसाम्योक्तेरुपमा श्लेषसंकीर्णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.