Loading data... On slow networks this could take a few minutes.
100%

भग्नद्रुमाश्चक्रुरितस्ततो
दिशः समुल्लसत्केतननाकुल्-
आः पिष्टाद्रिपृष्ठास्तरसा च दन्-
तिनश्चलन्निजाङ्गाचलदुर्गमा भुव्-
अः

मल्लिनाथः भग्नेति ॥ दन्तिनो गजा इतस्ततो भग्नद्रुमाः स्वभग्नाखिलवृक्षा दिशः समुल्लसद्भिः केतनैरेव काननैराकुलाः संकीर्णाश्चक्रुः । तथा तरसा बलेन पिष्टानि चूर्णितान्यद्रिपृष्ठानि यासु ता भुवो भूमीः चलद्भिर्निजाङ्गैरेवाचलैः दुर्गमा दुष्प्रापाश्चक्रुः । अत्र केतनेष्वङ्गेषु च काननाचलत्वरूपणाद्रूपकालंकारः । तेन गजानां पुरातनसृष्टिसंहारेण सृष्ट्यन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्यं गम्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ग्न द्रु मा श्च क्रु रि स्त तो दि
शः मु ल्ल त्के ना कु लाः
पि ष्टा द्रि पृ ष्ठा स्त सा न्ति
श्च न्नि जा ङ्गा दु र्ग मा भु वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.