श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता । नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥
श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता । नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥
मल्लिनाथः
श्च्योतदिति ॥ श्च्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैषिकः कप्प्रत्ययः । जीमूतकदम्बकस्येव द्युत् द्युतिर्यस्य तेन । पृथुभ्यां दन्ताभ्यां शालत इति तच्छालिना । गरीयसा गुरुतरेणोच्चकैरुन्नतेन केनचिन्नागेन गजेन जनस्य पन्था मार्गः यथाऽरोधि अगेन अचलेन न तथाऽरोधि रुद्धः । मत्तमातङ्गस्य दुरासदत्वाच्छैलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य नागस्याधिक्याद्व्यतिरेकः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.