Loading data... On slow networks this could take a few minutes.
100%

आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः । उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥

मल्लिनाथः आलोकेति ॥ हरिर्महीधरान् गिरीनधिश्रयन्तीः परःशताः शतात्पराः । असंख्याता इत्यर्थः । `परःशताद्यास्ते येषां परा संख्या शतादिकात्` इत्यमरः । `पञ्चमी` (अष्टाध्यायी २.१.३७ ) इति योगविभागात्समासः । राजदन्तादित्वादुपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । गजताः गजसमूहान् । `गजाच्चेति वक्तव्यम्` (वा०) इति सामूहिकस्तल्प्रत्ययः । उपत्यकाभ्य आसन्नभूमिभ्यः । `उपत्यकादेरासन्ना भूमिः` इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारूढयोः` (अष्टाध्यायी ५.२.३४ ) इति त्यकन्प्रत्ययः । उत्पातवातेन । तत्प्रतिकूलं पतन्तीति प्रतिकूलपातिनीः । ऊर्ध्वगामिनीरित्यर्थः । बृहतीः शिला इवेत्युप्रेक्षा । आलोकयामास
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.