दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः
शिलोच्चयानारुरुहुर्महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगा-
विपूर्यमाणश्रवणोदरमं द्विपाः ॥

मल्लिनाथः दन्ताग्रेति ॥ द्वाभ्यां पिबन्तीति द्विपाः । `सुपि` (अष्टाध्यायी ३.२.४ ) इति योगविभागात्कप्रत्ययः । उन्मुखा उन्नमितमुखाः सन्तः दन्ताग्रैर्निर्भिन्ना विदारिताः पयोदाः शृङ्गगता यस्मिन्कर्मणि तद्यथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्चीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिः मदाम्बुनिम्नगाभिः मदजलप्रवाहैः विपूर्यमाणानि श्रवणोदराणि श्रोत्रोदराणि यस्मिन्कर्मणि तद्यथा तथा महीयसो महत्तरान् शिलोच्चयान् शैलानारुरुहुः । स्वभावोक्तिः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्ता ग्र नि र्भि न्न यो मु न्मु खाः
शि लो च्च या ना रु रु हु र्म ही सः
ति र्य क्क प्ला वि दा म्बु नि म्न गा
वि पू र्य मा श्र णो मं द्वि पाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.