Loading data... On slow networks this could take a few minutes.
100%

प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥

मल्लिनाथः प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान् कुब्जानपि मेदिनीभृतोऽद्रीन् जनो लोकः समेन सुगमेन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीध्रान् महाद्रीन् परितोऽध्यरोहयत् । लोके हि सति क्षुण्णेऽध्वनि तेन शैलारोहणसंभवः । सेना तु सर्वपथातिरेकिण्यभूत् । पूर्वापराः सहस्रं पन्थानः स्वारोहणेन प्रवर्तिता इत्यर्थः । रोहतेर्गत्यर्थत्वात् `गतिबुद्धि-` (अष्टाध्यायी १.४.५२ ) इत्यादिना पथामणिकर्तॄणां णौ कर्मत्वम् । महीं धरन्तीति महीध्राः मूलविभुजादित्वात्कः । अत्र सेनायाः पथां शैलाधिरोहणेनोपमानाज्जनादाधिक्यकथनाद्व्यतिरेकः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.