उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥
मल्लिनाथः
&#३२; उच्चैरिति ॥ तदा तस्मिन्समये अतिदूराद्गच्छतोऽपि तस्य हरेः संबन्धिनीमुच्चैर्गतामत्यूर्ध्वमुन्नताम्, अन्यत्रोर्ध्वलोकेष्वपि व्याप्तामस्खलितामभङ्गुरां, सत्यां च गरीयसीमतिमहतीं, पूज्यां च । बलरेणुसंहतिं सेनारेणुसंघातमेके कतिपये महीभृतः पर्वता आज्ञां शासनं, अपरे महीभृतः, राजानश्च । शिरोभिः शेखरैः, शीर्षैश्च समूहुः संवहन्ति स्म । वहेलिटि झेरुसि `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता श्लेषप्रतिभोत्थापिता चेति संकरः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.