लीलाचलत्स्त्रीचरणारुणोत्पल-
स्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपमापाहरन्मनः
स्वनान्तरादुन्मदसारसारवः ॥

मल्लिनाथः लीलेति ॥ अनुगता आपो येषु ते अनूपा जलप्राया देशाः । `जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः` इत्यमरः । `प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च` (वा०) इति बहुव्रीहिः `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यदिना समासान्तः `ऊदनोर्देशे` (अष्टाध्यायी ६.३.९८ ) इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले स्त्रियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यौ ये तुलाकोटी नूपुरौ । `पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्` इत्यमरः । तयोर्निनाद इव कोमलो मधुर उन्मदसारसारवः मत्तहंसकूजितम् । `चक्राङ्गसारसौ हंसे` इति शब्दार्णवे । शौरेर्मनः स्वनान्तरादपाहरत् । अत्र मनोहरणस्य लीलेत्यादिविशेषणार्थहेतुकत्वादुपमासंकीर्णं काव्यलिङ्गम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
ली ला त्स्त्री णा रु णो त्प
स्ख त्तु ला को टि नि ना को लः
शौ रे रु पा नू मा पा न्म नः
स्व ना न्त रा दु न्म सा सा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.