Loading data... On slow networks this could take a few minutes.
100%

व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥

मल्लिनाथः व्यासेद्धुमिति ॥ गोप्याः शालिगोप्याः । गौरादित्वान्ङीष् । गीतान्युपकर्णयन् शृण्वन् असौ मृगव्रजो नूनं निश्चितं कलमं नात्ति न खादति इति । किं कलमभक्षणे गीतश्रवणविशेष इत्यत आह–असौ गोपी अस्मान् व्यासेद्धुं निवारयितुमवधानतो गीतैकाग्र्यात् पुरा चलति चलिष्यति । `यावत्पुरानिपातयोर्लट्` (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिर्व्यलोकयत् । अत्र मृगाणां कलमखादननिवृत्तेर्गीतासक्तिनिमित्तायास्तदाकर्णनसुखभङ्गभयहेतुकत्वमुत्प्रेक्ष्यते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.