स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥

मल्लिनाथः स इति ॥ यावच्छुकान् कीरानपासितुं गतास्तावन्मृगैरुपद्रुतश्रियामुपद्रुतसंपदां व्रीहिणां व्रीहिमताम् । `व्रीह्यादिभ्यश्च` (अष्टाध्यायी ५.२.११६ ) इतीनिप्रत्ययः । कैदारिकाणां क्षेत्रसमूहानाम् । `पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कदार्यं क्षेत्रं कैदारिकं गणे ॥` इत्यमरः । `ठञ् कवचिनश्च` (अष्टाध्यायी ४.२.४१ ) इति चकाराट्ठञ्प्रत्ययः । कृद्योगात्कर्मणि षष्ठी । गोपिकाः गोप्त्रीरभितः समाकुला व्यग्राः । उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासावलोकनस्य विशेषणगत्या समाकुलपदार्थहेतुकत्वात्काव्यलिङ्गभेदः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.