Loading data... On slow networks this could take a few minutes.
100%

अभ्याजतोऽभ्यागततूर्णतर्णका-
न्निर्याणहस्तस्य पुरोदुधुक्षतः ।
वर्गाद्गवां हुंकृतिचारु निर्यती-
मरिर्मधोरैक्षत गोमततल्लिकाम् ॥

मल्लिनाथः अभ्येति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः । अजेर्लटः शत्रादेशः । निर्याणं पादबन्धनं दाम । `निर्याणं दाम संदानं पशूनां पादबन्धने` इति वैजयन्ती । तद्धस्ते यस्य तस्य निर्याणहस्तस्य दुधुक्षतो दोग्धुमिच्छतः । दोग्धुरिति शेषः । दुहेः सन्नन्ताल्लटः शत्रादेशः घत्वधत्वे । पुरोऽग्रेऽभ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोऽतिबालवत्सो यस्यास्ताम् । `सद्योजातस्तु तर्णकः` इत्यमरः । गवां वर्गाद्गोव्रजाद्धुंकृतिचारु हुंकारमनोहरं यथा तथा निर्यतीं निर्गच्छन्तीम् । इणः शतरि ङीप् । इणो यणादेशः । प्रशस्तां गां गोमतल्लिकाम् । `प्रशंसावचनैश्च` इति नित्यसमासः । `मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि` इत्यमरः । मधोररिर्मधुसूदन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि `आडजादीनाम्` (अष्टाध्यायी ६.४.७२ ) इत्याट् `आटश्च` (६।१९०) इति वृद्धिः । स्वभावोक्तिः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
भ्या तो ऽभ्या तू र्ण र्ण का
न्नि र्या स्त स्य पु रो दु धु क्ष तः
र्गा द्ग वां हुं कृ ति चा रु नि र्य ती
रि र्म धो रै क्ष गो ल्लि काम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.