प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥
प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥
मल्लिनाथः
प्रीत्येति ॥ नियुक्तान्वामपादे एव संयतान् स्तनं धयन्ति पिबन्तीति स्तनंधयान् वत्सान् । `नासिकास्तनयोर्ध्माधेटोः` (अष्टाध्यायी ३.२.२९ ) इति धेटः खशप्रत्ययः । प्रीत्या वत्सांल्लिहतीर्जिह्वया स्वादयन्तीः रोहिणीर्गाः । `अर्जुन्यज्ञ्या रोहिणी स्यात्` इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुद्वयेन पारी दोहनपात्रीम् । `पारी पात्रीपरागयोः` इति विश्वः । निगृह्य निरुध्य । वर्धिष्णुधाराध्वनि वर्धनशीलक्षीरधाराशब्दं यथा भवति तथा दुहतः प्रपूरयतः । दुहेर्लटः शतरि शप् `दुह्याच्–` (अष्टाध्यायी ३.२.६१ ) इति द्विकर्मकत्वम् । गां दुहन्तीति गोदुहो गोदोहकान् । `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । स हरिश्चिरं निदध्याववलोकयति स्म । `निध्यानमवलोकनम्` इति वैजयन्ती । स्वभावोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.