Loading data... On slow networks this could take a few minutes.
100%

पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥

मल्लिनाथः पश्यन्निति ॥ एकान्तमौग्ध्येनात्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातविलासैः किंतु प्रसिद्धो विस्तार एव गुणो येषां तैः । अतिविशालैरित्यर्थः । कृतार्थैरपि । सकृद्दर्शनाल्लब्धविस्तारफलैरित्यर्थः । विलोचनैर्जनाधिनाथं कृष्णं पश्यन् बल्लवीजनो गोपाङ्गनाजनः वितृष्णतां तृप्ततां न ययौ । भूयो भूयः पश्यन्नपि नालंबुद्धिमवापेत्यर्थः । अत्र तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्यानुपपत्तेर्विशेषोक्तिः । सा कृष्णस्य मदनकोटिलावण्यलक्ष्मीं व्यञ्जयति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.