हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥
हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥
मल्लिनाथः
हस्तेति ॥ अत्र नृविशेषणानि शार्ङ्गिण्यपि विभक्तिविपरिणामेन योज्यानि ।&#३२; हस्तस्थितैरखण्डितैश्चक्रैश्चक्ररेखाभिः शालन्त इति तथोक्ताः, अन्यत्र चक्रं सुदर्शनं तच्छालिनम् । द्विजेन्द्रकान्ता ब्राह्मणोत्तमप्रियाः, अन्यत्र द्विजेन्द्रश्चन्द्रः `तस्मात् सोमराजानो ब्राह्मणाः` इति श्रुतेः । अत एव `द्विजराजः शशधरः` इत्यमरः । तद्वत्कान्तं सुन्दरं श्रिया शोभया श्रितवक्षसो व्याप्तोरस्काः, अन्यत्र रमयाधिष्ठितोरस्कम् । सत्ये सत्यवचनेऽनुरक्ताः, अन्यत्र सत्यायां सत्यभामायामनुरक्तम् । नरकस्य जिष्णवः, अन्यत्र नरकासुरस्य जेतारम् । `ग्लाजिस्थश्च` (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुः । `नरको निरये दैत्ये` इति विश्वः । एवंभूता नृपा एवंभूतं शार्ङ्गिणं गुणैर्विनयादिभिर्हेतुना अन्वयासिषुरनुजग्मुः, गुणैः पूर्वोक्तैरन्वकार्षुश्च । यार्तेलुङि च्लेः सिच् । `यमरम-`(अष्टाध्यायी ७.२.७३ ) इति सगागमः सिच इडागमश्च । `सिजभ्यस्त-` (अष्टाध्यायी ३.४.१०९ ) इति झेर्जुस् । अत्र शार्ङ्गिणो नृपाणां च प्रकृतत्वाच्छब्दमात्रसाधर्म्याच्च केवलः प्रकृतिविषयः शब्दश्लेषः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.