निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥

मल्लिनाथः निःशेषमिति ॥ चलन्कल्पान्ते क्षुभितः समुद्रोऽपि जलैर्निःशेषमाक्रान्तमहीतलः सन् स्थितिं मर्यादां वेलालङ्घनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितैरपरिमितैः सैन्यैः निःशेषमाक्रान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादां अकरोत् किम् । नाकरोदेवेत्यर्थः । अनोपमानात् समुद्रादुपमेयस्य केशवस्य मर्यादानतिक्रमेणाधिक्यकथनाध्यतिरेकालंकारः । लक्षणं तूक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.