कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥
मल्लिनाथः
कोशातकीति॥ कोशातकीपुष्पगुलुच्छकान्तिभिः पटोलीप्रसूनगुच्छसच्छायैः । स्मरपाण्डेररित्यर्थः । `कोशातकी पटोली स्यात्` इति हलायुधः । मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्बणं विपुलं बाणं नीलसैरेयपुष्पमिव चक्षुर्यासां ताः । `नीली झिण्टी द्वयोर्बाणा` इत्यमरः । ग्रामेषु भवा ग्रामीणाः । `ग्रामाद्यखञौ` (अष्टाध्यायी ४.२.९४ ) इति खञ्प्रत्ययः । ताश्च वध्वः स्त्रियस्तं कृष्णम् । ग्रामान्तर्गामिनमिति भावः । जनैश्चमूचरैरलक्षिता । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीनां कण्टकशाखावरणानामुपर्युपरितनावकाशे व्यलोकयन् । उपमास्वभावोक्त्योः संकरः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.