ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥

मल्लिनाथः ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । `बन्दिनः स्तुतिपाठकाः` इत्यमरः । ओजस्विवर्णस्य तेजस्विवर्णस्य क्षत्रजातेर्यदुज्ज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं तेन शालत इति ओजस्विवर्णोज्ज्वलवृत्तशाली तस्य, अन्यत्र ओजस्विवर्णैः समासभूयिष्ठाक्षरैरुज्ज्वलास्ते च ते वृत्तशालिनो वसन्ततिलकादिच्छन्दोविशेषशालिनश्च । `वृत्तं चारित्रच्छन्दसोरपि` इति विश्वः । तान् प्रसादोऽस्यास्तीति प्रसादी तस्य&#३२; प्रसादिनोऽनुग्रहशीलस्य । अन्यत्र प्रसादगुणयुक्तान् । `प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते` इति अनुज्झितौ गोत्रसंविदौ कुलाचारौ येन तस्य । यादववंशोत्पन्नस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्कितानित्यर्थः । `संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु` इति वैजयन्ती । एवंभूतस्योपेन्द्रस्य हरेर्गुणान् समुद्दिश्याधिकृत्य भूयसो बहुलान् श्लोकान् स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छ्लोकानां च वर्ण्यत्वेन प्रकृतानां श्लेषसाधर्म्यादौपम्यगम्यतायां श्लेषप्रतिभोत्थापिता केवलप्रकृतगोचरा तुल्ययोगिता । श्लेषश्च प्रकृतिषु प्रत्ययेषु नेति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.