Loading data... On slow networks this could take a few minutes.
100%

आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः । दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ॥

मल्लिनाथः आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननूचि पृष्ठदेशे । `ऋत्विग्-` (अष्टाध्यायी ३.२.५९ ) इत्यादिनाऽञ्चेः क्विन्प्रत्ययः । आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः संभ्रान्तवधूकाश्चमूचराः दूरादेवापावर्तिता अपसारिता भारस्यान्नादेहिना भारवाहणा भारवाहिन उष्ट्रादयो यैस्ते तथा सन्तः । `वाहनमाहितात्` (अष्टाध्यायी ८.४.८ ) इति णत्वम् । वहेर्ण्यन्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसस्रुरपजग्मुः । स्वभावोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.