शौरेः प्रतापोपनतैरितस्ततः
समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणै-
रभूदबहुच्छात्रतया पताकिनी ॥

मल्लिनाथः शौरेरिति ॥ शौरेः कृष्णस्य पताकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापेन हरितेजसा उपनतैर्नम्रैः । विधेयैरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतैः प्रश्रयनम्रमूर्तिभिर्हरिसंनिधौ विनयनम्रविग्रहैः पृथिवीभृतां राज्ञां गणैर्हेतुना बहुच्छत्रतया असंख्यातातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्याः सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिक्तं न किंचिदलक्ष्यतेत्यर्थः । `एके मुख्यान्यकेवलाः` इत्यमरः । बहुच्छत्राप्येकच्छत्रेति विरोधभासनाद्विरोधाभासोऽलंकारः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
शौ रेः प्र ता पो तै रि स्त तः
मा तैः प्र श्र म्र मू र्ति भिः
का त्रा पृ थि वी भृ तां णै
भू हु च्छा त्र या ता कि नी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.