Loading data... On slow networks this could take a few minutes.
100%

अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥

मल्लिनाथः अध्यध्वमिति ॥ दक्षस्य भावो दाक्ष्यं कौशलं सद्यः फलदम् । कुतः, यद्यस्मादध्यध्वमध्वनि । विभक्त्यर्थेऽव्ययीभावः, `अनश्च` (अष्टाध्यायी ५.४.१०८ ) इति समासान्तोऽप्रत्ययः `नस्तद्धिते` (अष्टाध्यायी ६.४.१४४ ) इति टिलोपः । आरूढवतैवारुह्यैव स्थितेन । निष्ठेति रुहेः क्तवतुप्रत्ययः । जनं शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षमाणेन । केनचित्पुंसेति शेषः । मुहुर्धृतः स्थापितोऽपि दासेरयुवा तरुणोष्ट्रः । विशेषणसमासः। अग्रतो वनावलीश्चखाद । पुरः पिचुमर्दादिकं भक्षयन्नास्त इत्यर्थः। न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामान्यस्य तद्विशेषेण दासेरककौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.