निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः । उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥

मल्लिनाथः निम्नानीति ॥ अर्वतामश्वानाम् । `वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः` इत्यमरः । `अर्वणस्त्रसावनञः` ( पा.६।४।१२७) इति त्रादेशः । व्रजाः समूहाः सादिभिरश्वारूढैः । सयत्नमाकृष्टकशा दृढगृहीतवल्गाः सन्तः । यद्यपि `अश्वादेस्ताडनी कशा` इत्यमरः, तथाप्यत्र `ताडनीवल्गयोः कशा` इति दर्शनादविरोधः । शनैःशनैः दुःखात्कृच्छ्रात् निम्नानि निम्नभूप्रदेशानवतीर्य उत्तालखुरारवमुच्चतरशफशब्दं श्लथीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा द्रुताः सत्वराः सन्त उत्तेरुः उत्पुप्लुविरे । निम्नेषु शनैरवतीर्य दीर्घं धावन्तीत्यश्वानां स्वभाव इति भावः । अत एव स्वभावोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.