तस्थेमुहूर्त हरिणीविलोचनैः
सदृशि दृष्ट्वा नयनानि योषिताम् ।
त्वाथ सत्रासमनेकविभ्रम-
क्रियाविकाराणि मृगैः पलाय्यत ॥

मल्लिनाथः तस्थ इति ॥ हरिणीविलोचनैः सदृंशि सदृशानि । `नपुंसकस्य झलचः` (अष्टाध्यायी ७.१.७२ ) इति नुम् । योषितां नयनानि दृष्ट्वा मृगैः कृष्णसारैः कर्तृभिः मुहूर्तमल्पकालम् । `मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च` इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशङ्कयेति भावः । अथानन्तरमनेका विभ्रमक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि ज्ञात्वेत्यर्थः । सत्रासं सभयं यथा तथा पलाय्यत पलायितम् । हरिणीदुर्लभैर्विलासैर्योषिन्निश्चयादिति भावः । अत एव निश्चयान्तः संशयालंकारः । परापूर्वादयतेर्भावे लङ् । `उपसर्गस्यायतौ` (अष्टाध्यायी ८.२.१९ ) इति लत्वम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
स्थे मु हू र्त रि णी वि लो नैः
दृ शि दृ ष्ट्वा ना नि यो षि ताम्
त्वा त्रा ने वि भ्र
क्रि या वि का रा णि मृ गैः ला य्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.