तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥
तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥
मल्लिनाथः
तैरिति ॥ वैजयन्त्यः पताकाः ता वनराजय इव ताभी राजन्तीति तथोक्तैः गिरीणां प्रतिच्छन्दाः प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टोपमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामतङ्गजा येषु तैः । जनता जनसमूहास्ता नद्य इव तासां शतानि प्रसर्पन्ति प्रवहन्ति येषु तैस्तथोक्तैः बलैः सैन्यैः । बह्व्यो बहवः । `बह्वादिभ्यश्च` (अष्टाध्यायी ४.१.४५ ) इति विकल्पादीकारः । भुवो भूमयः अन्तरयांबभूविरेऽन्तरा दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवलं रैवतकादिरेवेति भावः । बलैर्वैपुल्यादाच्छादिता इत्यर्थः । उक्तविशेषणावगतसादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बलविशेषणावगतसादृश्यस्य हेतुकत्वात्तदङ्गभूतोपमासंकीर्णं पदार्थहेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्थापितमिति संकरः अन्तरशब्दात् `तत्करोति-` (ग०) इति ण्यन्तात्कर्मणि लिट् । आम्प्रत्यये भुवोऽनुप्रयोगः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.