स्वक्षं सुपत्रं कनकोज्वलद्युतिं
जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्य नभसीव भूतले
ययावनुद्घातमुखेन सोऽध्वना ॥

मल्लिनाथः स्वक्षमिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुभेदो यस्य तं स्वक्षम् । `स्यादक्षश्चक्रधारणः` इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । `अथाक्षमिन्द्रियम्` इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । `पत्रं वाहनपक्षयोः` इत्यमरः । कनकोज्ज्वलद्युतिं कनकरचनावन्तम् । अन्यत्र कनकवदुज्ज्वलद्युतिं कनकवर्णम् । जवेन नागान् गजान् , उरगांश्च जितवन्तम्। ततोऽधिकवेगमित्यर्थः । अन्यत्र नागान्तकमित्यर्थः । उच्चकैरुन्नतं तार्क्ष्यं रथं गरुडं च । `तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरंगयोः । तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे ॥` इति विश्वः । आरुह्य नभसीव भूतलेऽनुद्धातेनाप्रतिघातेन सुखः सुगमस्तेनाध्वना ययौ गरुडमारुह्य नभसीव रथमारुह्य भूतलेऽप्यप्रतिहतं ययौ। गरुडवदेव तद्रथस्यापि सर्वत्राप्रतिहतगतित्वादित्यर्थः । नायं श्लेषः प्रकृताप्रकृतवादेऽपि तार्क्ष्यमिति विशेष्यश्लेषायोगादन्यत्राप्रसङ्गाच्च श्लेषसंकीर्णेयमुपमा
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
स्व क्षं सु त्रं को ज्व द्यु तिं
वे ना गा ञ्जि न्त मु च्च कैः
रु ह्य ता र्क्ष्य सी भू ले
या नु द्घा मु खे सो ऽध्व ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.