त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके । क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके । क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥
मल्लिनाथः
त्रस्ताविति ॥ समासन्नस्य प्रत्यासन्नस्य करेणोरिभस्य सूत्कृतात्सूत्कारात्त्रस्तौ करभौ वेसरौ । `करभो वेसरेऽप्युष्ट्रे` इति सज्जनः । नियन्तरि सारथौ व्याकुलं व्यग्रं यथा तथा मुक्तरज्जुके त्यक्तप्रग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तद्यथा तथा उत्पथेनापथेन । `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तः । गां भूमिं विलङ्घय दूरमतीत्य लघ्वी रथविशेषम् । `लघ्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च` इति हैमः । बभञ्जतुर्भग्नवन्तौ । अत्र त्रासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं स्वभावोक्त्या संकीर्यते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.