स्रस्ताङ्गसन्धौ विगताशापाटवे
रुजा निकामं विकलीकृते रथे ।
आप्तेन तत्क्षणा भिषजेव तत्क्षणं
प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥

मल्लिनाथः स्रस्तेति ॥ स्रस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च संधयः संधिभागा यस्य तस्मिन् विगतमक्षस्य चक्राधारकाष्ठस्याक्षाणामिन्द्रियाणां च पाटवं सामर्थ्यं यस्य तस्मिन् रथे स्यन्दने, शरीरे च । `रथः स्यात्स्यन्दने काये` इति विश्वः । रुजा भङ्गेन, रोगेण च निकामं विकलीकृते सति आप्तेन हितेन तक्ष्णा वर्धकिना, आप्तेन हितेन भिषजा वैद्येनेव । `तक्षा तु वर्धकिस्त्वष्टा` इत्यमरः । तत्क्षणं तस्मिन्नेव क्षणे । अत्यन्तसंयोगे द्वितीया । लङ्घनं पादेनाक्रमणं, उपवासश्च । `लङ्घनं तूपवासे स्वाद्गमने प्लवनेऽपि च` इति विश्वः । तत्पूर्वकः क्रमो विधिः प्रचक्रमे प्रक्रान्तः । प्रायेण ज्वरादिचिकित्साया लङ्घनपूर्वकत्वादिति भावः । श्लेषालंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्र स्ता ङ्ग न्धौ वि ता शा पा वे
रु जा नि का मं वि ली कृ ते थे
प्ते त्क्ष णा भि जे त्क्ष णं
प्र क्र मे ङ्घ पू र्व कः क्र मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.