भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि । अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥
भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि । अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥
मल्लिनाथः
भूभृद्भिरिति ॥ उन्नतैरपि भूभृद्भिः भूधरैर्भूपैश्चास्खलिता अप्रतिहताः पृथूर्महतीरपि सरितो यमुनाप्रभृतीर्नदीरपह्नुवाना स्वमहिम्नाच्छादयन्ती त्रिभिर्मागैर्गच्छतीति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्था अनुगतार्था संज्ञा `त्रिमार्गगा` इति नामधेयं यस्याः सैव खलु त्रिभिरेव मागैर्ययौ न चतुर्थेनेत्यर्थः । असौ चमूस्त्वसंख्यैः पथिभिर्ययौ । अतो गङ्गाया अप्यधिका चमूरिति भावः । अत एव व्यतिरेकालंकारः । `भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः । अधिकाल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥` इति तल्लक्षणात्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.