दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः । पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥

मल्लिनाथः दुर्दान्तमिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्टात्पातितावरोहमेकया दिशा प्रद्रुतं पलायितं दुर्दान्तं दुर्विनीतं तुरंगमं हासकृतेन हाकारेण सह यथा तथा जनोऽवलोकयदवलोकितवान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.