पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥
पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥
मल्लिनाथः
पादैरिति ॥ कूबरिणां रथानाम् । `कूबरस्तु युगंधरः` इत्यमरः । स एषामस्तीति ते रथास्तेषां पादैः चक्रैः पुरः पूर्वं विदारिताः ततो गजैः प्रकाममाक्रान्ततलाः भग्नैरुक्तप्रकारेण पूर्वं भग्नत्वादुन्नतैरनन्तरैरुभयभागैः पूरितान्तराः समीकृतनिम्नप्रदेशाः । यद्वा पूर्वं रथचक्रविदारितत्वाद्भग्नोन्नता अनन्तरं गजपतिपरिक्रमणेन पूरितानतप्रदेशाः भुवः कृष्टसमीकृताः पूर्वं हलैः कृष्टा अनन्तरं बीजवपनार्थं समीकृता इव बभुः शुशुभिरे
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.