Loading data... On slow networks this could take a few minutes.
100%

इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥

मल्लिनाथः इत्थमिति ॥ इत्थं भूते । पूर्वसर्गोक्तविध इत्यर्थः । प्रगे प्रातःकाले । `सायं साये प्रगे प्रातः` इत्यव्ययेष्वमरः । अथ सूर्योदयानन्तरं रथाश्वेभे निषीदन्तीति रथाश्वेभनिषादिनाम् । रथेषु अश्वेषु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः । तोरणाद्भगवतो बाह्यद्वाराद्बहिः । `अपपरिबहिरञ्चवः पञ्चम्या` (अष्टाध्यायी २.१.१२ ) इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी । `तोरणोऽस्त्री बहिर्द्वारम्` इत्यमरः । प्रस्थानकाले प्रयाणकाले क्षम उचितो वेष आकल्पः। `आकल्पवेषौ नेपथ्यम्` इत्यमरः । तस्य कल्पनया संपादनेन कृतः क्षणक्षेपः क्षणविलम्बो येन तमच्युतं हरिमुदैक्षत । प्रतीक्षितवानित्यर्थः । अत्राच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । अस्मिन्सर्गे विषमपादयोर्जागतमिन्द्रवंशा वृत्तम् । `स्यादिन्द्रवंशा ततजै रसंयुतैः` इति लक्षणात् । समपादयोस्तु जागतमेव वंशस्थं वृत्तम् । `जतौ तु वंशस्थमुदीरितं जरौ` इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुबिन्द्रवज्रोपेन्द्रवज्रालक्षणानन्तरम् `अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः` इत्युक्त्वोक्तम् । `इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम` इति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.