Loading data... On slow networks this could take a few minutes.
100%

ऋज्वीर्दधानैरवतत्य कन्धरा-
श्चलावचूडाः कलाघर्घररारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं
क्रमेलकैस्तक्षणमेव चिच्छिदे ॥

मल्लिनाथः ऋज्वीरिति ॥ ऋज्वीरवक्राः चलावचूडाः चलितकण्ठभूषणाः । `शिरःशिखाभूषणेषु चूडा` इति यादवः । चलितशिरस इति वा । कंधराः शिरोधरा अवतत्य वितत्य दधानः कलघर्घरारवैः । `घर्घरा क्षुद्रघण्टा स्यात्` इति शाश्वतः । अथवा घर्घरारव इति शब्दानुकरणम् । क्रमेलकैरुष्ट्रैः अविलम्बितक्रमम् , क्रमः पदक्षेपः । द्रुतपादक्षेपं यथा तथा महत्यपि भूमिस्तत्क्षणमेव चिच्छिदेऽतिक्रान्ता । स्वभावोक्तिः
छन्दः इन्द्रवंशा [१२: ततजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
ज्वी र्द धा नै त्य न्ध रा
श्च ला चू डाः ला र्घ रा वैः
भू मि र्म त्य प्य वि म्बि क्र मं
क्र मे कै स्त क्ष मे चि च्छि दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.