यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः । अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥
यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः । अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥
मल्लिनाथः
यान्त इति ॥ जवाद्वेगाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनातुरगा अभितः प्रकीर्णैरुभयतः प्रसृतैः प्रकीर्णकैश्चामरैः । `चामरं तु प्रकीर्णकम्` इत्यमरः । कण्ठभूषणचामरैर्हेतुभिरद्यापि अलूनपक्षा इवेति सविस्मयैर्जनैर्मेनिरे । पूर्वं तुरगाणामपि पक्षा आसन् पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.