Loading data... On slow networks this could take a few minutes.
100%

अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकाम् ॥

मल्लिनाथः अन्वेत्विति ॥ अन्तिकागतां करेणुकां करिणीमन्वेतुकामोऽनुगन्तुकामः अङ्कुशं गृह्णातीत्यङ्कुशग्रहो निषादी सोऽवमतो येन सः निषादिना साङ्कुशं तिरोगतम् । अङ्कुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुद्वहन् गजः अग्रयाताग्रकरः करिणीग्रहणाय प्रसारितकराग्रो भूत्वा स्थूलोच्चयेन गतिविशेषेणागमज्जगाम । `गजमध्यगतौ स्थूलोच्चयः साकल्यपुञ्जयोः` इति रत्नप्रकाशः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.