Loading data... On slow networks this could take a few minutes.
100%

मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् । तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥

मल्लिनाथः मन्द्रैरिति ॥ मन्द्रैर्गम्भीरैः । `मन्द्रस्तु गम्भीरे` इत्यमरः । रथमण्डलस्वनैः तादृशं तद्रूपमेव गजानां बृंहितं निजुह्नुवे तिरस्कृतम् । गजध्वनिरेकरूपत्वेन रथशब्दान्न पृथगश्रावीत्यर्थः । तारैरुच्चैस्तरैर्मन्द्रस्वरविलक्षणैस्तुरंगहेषितैः परभागलाभतस्तेषु तादृशध्वनिगुणभेदलाभात्तेषु गजादिस्वनेषु परिस्फुटैर्बभूवे । तुरंगहेषाः सुव्यक्ता एव शुश्रुविर इत्यर्थः । `बृंहितं करिणां शब्दो हेषा हृषा च वाजिनाम् । बभूवे इति भावे लिट् । निजुह्नुव इति कर्मणि लिट्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.