कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति । खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥
कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति । खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥
मल्लिनाथः
कालीयेति ॥ कालीयं कुङ्कुमम् । `काश्मीरजन्म घुसृणं कालीयं कुङ्कुमं विदुः` इति शाश्वतः । कालीयकक्षोदैः कुङ्कुमचूर्णैः कृतानुलेपनश्रियं दिशां दिशद्ददत् । उल्लस दंशुमान् उद्यदादित्यस्तत्समा द्युतिर्यस्य तत् मुद्गभुजामश्वानां खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वाद्गिरेरधस्तादेव विपप्रथे विस्तीर्णमभवत्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.