Loading data... On slow networks this could take a few minutes.
100%

समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः
स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
स्वानिनिन्ये नितरां महान्त्यपि
व्यथां द्वयेषामपि मेदिनीघृताम् ॥

मल्लिनाथः संमूर्च्छदिति ॥ `मुर्छा मोहसमुच्छ्राययोः` इति धातुः । संमूर्च्छन्नुच्छ्रायं गच्छन् प्रचुरीभवन्नुच्छृङ्खलोऽनर्गलः सर्वव्यापी शङ्खस्य निःस्वनो यस्मिन्सः शार्ङ्गिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः द्वयेषामुभयेषामपि मेदिनीभृतां राज्ञां, पर्वतानां च महान्त्यपि सत्त्वानि बलानि, भूतानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणाद्राज्ञां बलान्यभिभवशङ्कया व्यथितान्यासन् । तथा गिरिस्थिताः सिंहादयो जन्तवश्व किमिदमिति ससाध्वसा आसन्नित्यर्थः। `व्यवसाये स्वभावे च पिशाचादौ गुणे बले । द्रव्यात्मभावयोश्चैव सत्त्वं प्राणेषु जन्तुषु ॥` इति शाश्वतः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मू र्च्छ दु च्छृ ङ्ख ङ्ख नि स्व नः
स्व नः प्र या ते स्य शा र्ङ्गि णि
स्वा नि नि न्ये नि रां हा न्त्य पि
व्य थां द्व ये षा पि मे दि नी घृ ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.