Loading data... On slow networks this could take a few minutes.
100%

द्रुततरकरदक्षाः क्षिप्तवैशखशैले
दधति दधनि धीरानारवान्वारिणीव ।
शशिनमिव सुरौघाःसारमुद्धर्तुमेते
कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥

मल्लिनाथः द्रुतेति ॥ द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बल्लवा गोपालाः । `आभीरः स्यान्महाशूद्रो गोपालो बल्लवस्तथा` इति वैजयन्ती । विशाखा प्रयोजनमस्येति वैशाखो मन्थनदण्डः । `वैशाखमन्थमन्थानमन्थानो मन्थदण्डके` इत्यमरः । `विशाखाषाढादण्मन्थदण्डयोः (अष्टाध्यायी ५.१.११० ) इत्यण्प्रत्ययः । वैशाखः शैल इवेत्युपमितसमासः । साहचर्याक्षिप्तो वैशाखशैलो यस्मिन् । धीरान् गम्भीरानारवान् दधति दधनि दध्नि । `विभाषा ङिश्योः` (अष्टाध्यायी ६.४.१३६ ) इति विकल्पादल्लोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । `उपमानानि सामान्यवचनैः` (अष्टाध्यायी २.१.५५ ) इति समासः । तां कलशिं कुम्भीमेते लोडयन्ति मथ्नन्ति । एषापि पूर्वतरवत्पूर्णा वाक्यार्थोपमा वाक्यसमाससंकीर्णा च
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
द्रु क्षाः क्षि प्त वै शै ले
ति नि धी रा ना वा न्वा रि णी
शि मि सु रौ घाः सा मु द्ध र्तु मे ते
शि मु धि गु र्वी ल्ल वा लो न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.