Loading data... On slow networks this could take a few minutes.
100%

अनुनयमगृहीत्वा व्याजसुप्ता पराची
रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री
मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥

मल्लिनाथः अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी&#३२; व्याजेन कपटेन सुप्ता स्त्री । अथ कल्ये प्रभाते । `प्रत्यूषोऽहर्मुखं कल्यम्` इत्यमरः । कृकवाकोः कुक्कुटस्य । `कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः` इत्यमरः । `कृके वचः कश्च` (उ० ६) इत्युण्प्रत्ययः । तारमुच्चै रुतं कूजितमाकर्ण्य कथमपि गात्रजृम्भणादिव्याजेन परिवृत्ता संमुखीभूता निद्रयान्धा किल अजानतीव मुकुलितनयनैव मीलिताक्षी सत्येव प्राणनाथमाश्लिष्यति । एषा कलहान्तरिता
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
नु गृ ही त्वा व्या सु प्ता रा ची
रु कृ वा को स्ता मा र्ण्य ल्पे
पि रि वृ त्ता नि द्र या न्धा कि स्त्री
मु कु लि नै वा शि लि ष्य ति प्रा ना थम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.